(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharat Part 4 | Virat Parva | महाभारत | विराट पर्व


॥ श्रीः ॥
4.21. अध्यायः 021
Mahabharata - Virata Parva - Chapter Topics
वैशम्पायनेन जनमेजयंप्रति कीचकोत्पत्तिप्रकारादिकथनम् ॥ 1 ॥
Mahabharata - Virata Parva - Chapter Text

जनमेजय उवाच। 4-21-0x(3077)(29070)
अहो दुःखतरं प्राप्ता कीचकेन पदा हता।
पतिव्रता महाभागा द्रौपदी योषितांवरा ॥ 1 ॥ 4-21-1(29071)
दुःशलां स्मारयन्ती सा भर्तॄणां भगिनीं शुभाम्।
नाशपत्सिन्धुराजं सा बलात्कारेण वाहिता ॥ 2 ॥ 4-21-2(29072)
किमर्थमिह संप्राप्ता कीचकेन दुरात्मना ।
नाशपत्तं महाभागा कृष्णा पादेन ताडिता ॥ 3 ॥ 4-21-3(29073)
तेजोराशिरियं देवी धर्मज्ञा सत्यवादिनी ।
केशपांशे परामृष्टा मर्षयन्ती ह्यशक्तवत् ॥ 4 ॥ 4-21-4(29074)
नैतत्कारणमल्पं हि श्रोतुकामोऽस्मि सत्तम।
कृष्णायास्तु परिक्लेशान्मनो मे दूयते भृशम् ॥ 5 ॥ 4-21-5(29075)
कस्य वंशे समुद्भूतः स च दुर्ललितो मुने ।
बलोन्मत्तः कथं चासीत्स्यालो मात्स्यस्य कीचकः ॥ 6 ॥ 4-21-6(29076)
दृष्ट्वापि तां प्रियां भार्यां सूतपुत्रेण ताडिताम् ।
नैव चुक्षुभिरे वीराः किमकुर्वन्त तं प्रति ॥ 7 ॥ 4-21-7(29077)
वैशम्पायन उवाच। 4-21-8x(3078)
त्वदुक्तोऽयमनुप्रश्नः कुरूणां कीर्तिवर्धनः।
एतत्सर्वं यथा वक्ष्ये विस्तरेणेह पार्थिव ॥ 8 ॥ 4-21-8(29078)
ब्राह्मण्यां क्षत्रियाञ्जातः सूतो भवति पार्थिव ।
प्रातिलोम्येन जातानां स ह्येको द्विज एव तु ॥ 9 ॥ 4-21-9(29079)
रथकारमितीमं हि क्रियायुक्तं द्विजन्मनाम्।
क्षत्रियादवरो वैश्याद्विशिष्ट इति चक्षते ॥ 10 ॥ 4-21-10(29080)
सह सूतेन संबन्धः कृतः पूर्वं नराधिपैः।
तेन तु प्रातिलोम्येन राजशब्दो न लभ्यते ॥ 11 ॥ 4-21-11(29081)
तेषां तु सूतविषयः सूतानां नामतः कृतः।
उपजीव्यं च यत्क्षेत्रं राजन्सूतेन वै पुरा ॥ 12 ॥ 4-21-12(29082)
सूतानामधिपो राजा केकयो नाम विश्रुतः।
राजकन्यासमुद्भूतः सारथ्येऽनुपमोऽभवत् ॥ 13 ॥ 4-21-13(29083)
पुत्रास्तस्य कुरुश्रेष्ठ मालव्यां जझिरे तदा।
कीचका इति विख्याताः शतं षट् चैव भारत ॥ 14 ॥ 4-21-14(29084)
तेषामासीद्बलश्रेष्ठः कीचकः सर्वजित्प्रभो।
अग्रजो बलसंमत्तस्तेनासीत्सूतषट्शतम् ॥ 15 ॥ 4-21-15(29085)
मालव्या एव कौरव्य तत्र ह्यवरजाऽभवत्।
तस्यां केकयराज्ञस्तु सुदेष्णा दुहिताऽभवत् ॥ 16 ॥ 4-21-16(29086)
तां विराटस्य मात्स्यस्य केकयः प्रददौ मुदा।
सुरथायां मृतायां तु कौसल्यां श्वेतमातरि ॥ 17 ॥ 4-21-17(29087)
श्वेते विनष्टे शङ्खे च गते मातुलवेश्मनि ।
सुदेष्णां महिषीं लब्ध्वा राज दुःखमपानुदत् ॥ 18 ॥ 4-21-18(29088)
उत्तरं चोत्तरां चैव विराटात्पृथिवीपते।
सुदेष्णा सुषुवे देवी कैकेयी कुलवृद्धये ॥ 19 ॥ 4-21-19(29089)
मातृष्वसृसुतां राजन्कीचकस्तामनिन्दिताम्।
सदा परिचरन्प्रीत्या विराटे न्यवसत्सुखी ॥ 20 ॥ 4-21-20(29090)
भ्रातरश्चास्य विक्रान्ताः सर्वे च तमनुव्रताः ।
विराटस्यैव संहृष्टा बलं कोशं त्ववर्धयन् ॥ 21 ॥ 4-21-21(29091)
कालेया नाम ते दैत्याः प्रायशो भुवि विश्रुताः।
जझिरे कीचका राजन्बाणो ज्येष्ठस्तथाऽभवत् ॥ 22 ॥ 4-21-22(29092)
स हि सर्वास्रसंपन्नो बलवान्भीमविक्रमः ।
कीचको नष्टमर्यादो बभूव भयदो नृणाम् ॥ 23 ॥ 4-21-23(29093)
तं प्राप्य बलसंमत्तं विराटः पृथिवीपतिः ।
जिगाय सर्वांश्च रिपून्यथेन्द्रो दानवान्पुरा ॥ 24 ॥ 4-21-24(29094)
मेखलांश्च त्रिगर्तांश्च दशार्णांश्च कशेरुकान्।
मालवांश्चैव यवनान्सिलिन्दान्काशिकोसलान् ॥ 25 ॥ 4-21-25(29095)
करदांश्च निषिद्धांश्च शिवान्मचुलकांस्तथा।
पुलिन्दांश्च कलिङ्गांश्च तङ्कणान्परतङ्कणान् ॥ 26 ॥ 4-21-26(29096)
अन्ये च बहवः शूरा नानाजनपदेश्वराः।
कीचकेन रणे भग्ना विद्रवन्ति दिशो दश ॥ 27 ॥ 4-21-27(29097)
तमेवंवीर्यसंपन्नं नागायुतसमं बले।
विराटस्तत्र सेनायाश्चकार पतिमात्मनः ॥ 28 ॥ 4-21-28(29098)
विराटभ्रातरश्चैव दश दाशरथेः समाः।
ते चैनानन्ववर्तन्त कीचकान्बलवत्तरान् ॥ 29 ॥ 4-21-29(29099)
एवंविधबलो भीमः कीचकस्ते च तद्विधाः।
राज्ञः स्याला महात्मानो विराटस्य हितैषिणः ॥ 30 ॥ 4-21-30(29100)
एतत्ते कथितं सर्वं कीचकस्य पराक्रमम्।
द्रौपदी न शशापैनं यस्मात्तद्गदतः शृणु ॥ 31 ॥ 4-21-31(29101)
रक्षन्ति हि तपः क्रोधादृषयो न शपन्ति च।
जानन्ती तद्यथातत्त्वं द्रौपदी न शशाप तम् ॥ 32 ॥ 4-21-32(29102)
क्षमा धर्मः क्षमा दानं क्षमा यज्ञः क्षमा तपः।
क्षमा सत्यं क्षमा शीलं क्षमा सर्वमिति श्रुतिः ॥ 33 ॥ 4-21-33(29103)
क्षमावतामयं लोकः परश्चैव क्षमावताम्।
एतत्सर्वं विजानन्ती सा क्षमामन्वपद्यत ॥ 34 ॥ 4-21-34(29104)
भर्तॄणां मतमाज्ञाय क्षमिणां धर्मचारिणाम्।
नाशपत्तं विशालाक्षी सती शक्ताऽपि भारत ॥ 35 ॥ 4-21-35(29105)
पाण्डवाश्चापि ते सर्वे द्रौपदीं प्रेक्ष्य दुःखिताम्।
क्रोधाग्निनाऽप्यदह्यन्त तदा लञ्जाव्यपेक्षया ॥ 36 ॥ 4-21-36(29106)
अथ भीमो महाबाहुः मूदयिष्यंस्तु कीचकम्।
वारितो धर्मपुत्रेण वेलयेव महोदधिः ॥ 37 ॥ 4-21-37(29107)
संधार्य मनसा रोषं दिवारात्रं विनिश्वसन्।
महानसे तदा कृच्छ्रात्सुष्वाप रजनीं च ताम् ॥ 38 ॥ ॥ 4-21-38(29108)

इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि एकविंशोऽध्यायः ॥ 21 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.